|
|
 |
 |
|
|
१३ अनुशासनपर्व.jpg)
॥ श्रीः ॥
13.43. अध्यायः 043
अथ दानधर्मपर्व ॥ 1 ॥
Mahabharata - Anushaasana Parva - Chapter Topics
बदरीनारायणेन गरुडंप्रति स्वमहिमोक्तिः॥ 1 ॥ गरुडेन मुनिगणान्प्रति स्वानुभूतनारायणमहिमोक्तिः॥ 2 ॥

Mahabharata - Anushaasana Parva - Chapter Text
`भगवानुवाच।
मां न देवा न गन्धर्वा नासुरा न व राक्षसाः।
विदुस्तत्वेन सत्वस्थं सूक्ष्मात्मानमवस्थितम्॥ 13-43-1(82597)
चतुर्धाऽहं विभक्तात्मा लोकानां हितकाम्यया।
भूतभव्यभविष्यादिरनादिर्विश्वकृत्तमः॥ 13-43-2(82598)
पृथिवी वायुराकाशमापो ज्योतिश्च पञ्चमम्।
मनो बुद्धिश्च चेतश्च तमः सत्वं रजस्तथा॥ 13-43-3(82599)
प्रकृतिर्विकृतिश्चैव विद्याविद्ये शुभाशुभे।
मत्त एतानि जायन्ते नाहमेभ्यः कथञ्चन॥ 13-43-4(82600)
यत्किंचिच्छ्रेयसा युक्तं श्रेयस्करमनुत्तमम्।
धर्मयुक्तं च पुण्यं च सोऽहमस्मि निरामयः॥ 13-43-5(82601)
यत्स्वभावात्मतत्वज्ञैः कारणैरुपलक्ष्यते।
अनादिमध्यनिधनः सोन्तरात्माऽस्मि शाश्वतः॥ 13-43-6(82602)
यत्तु मे परमं गुह्यं रूपं सूक्ष्मार्थदर्शिभिः।
गृह्यते सूक्ष्मभावज्ञैः सोऽविभाव्योस्मि शाश्वतः॥ 13-43-7(82603)
तत्तु मे परमं गुह्यं येन व्याप्तमिदं जगत्।
सोहङ्गतः सर्वसत्वः सर्वस्य प्रभवोऽव्ययः॥ 13-43-8(82604)
मत्तो जायन्ति भूतानि मया धार्यन्त्यहर्निशम्।
मय्येव विलयं यान्ति प्रलये पन्नगाशन॥ 13-43-9(82605)
यो मां यथा वेदयति तथा तस्यास्मि काश्यप।
मनोबुद्धिगतः श्रेयो विदधामि विहङ्गम॥ 13-43-10(82606)
मां तु ज्ञातुं कृता बुद्धिर्भवता पक्षिसत्तम।
शृणु योऽहं यतश्चाहं यदर्थश्चाहमुद्यतः॥ 13-43-11(82607)
ये केचिन्नियतात्मानस्त्रेताग्निपरमार्चिताः।
अग्निकार्यपरा नित्यं जपहोमपरायणाः॥ 13-43-12(82608)
आत्मन्यग्नीन्समाधाय नियता नियतेन्द्रियाः।
अनन्यमनसस्ते मां सर्वे वै समुपासते॥ 13-43-13(82609)
यजन्तो जपयज्ञैर्मां मानसैश्च सुसंयताः।
अग्नीनभ्युद्ययुः शश्वदग्निष्वेवाभिसंश्रिताः॥ 13-43-14(82610)
अनन्यकार्याः शुचयो नित्यमग्निपरायणाः।
य एवंबुद्ध्यो धीरास्ते मां गच्छन्ति तादृशाः॥ 13-43-15(82611)
अकामहतसङ्कल्पा ज्ञाने नित्यं समाहिताः।
आत्मन्यग्निं समाधाय निराहारा निराशिषः॥ 13-43-16(82612)
विषयेषु निरारम्भा विमुक्ता ज्ञानचक्षुषः।
अनन्यमनसो धीराः स्वभावनियमान्विताः॥ 13-43-17(82613)
यत्तद्वियति दृष्टं तत्सरः पद्मोत्पलायुतम्।
तत्राग्नयः सन्निहिता दीप्यन्ते स्म निरिन्धनाः॥ 13-43-18(82614)
ज्ञानामलाशयास्तस्मिन्ये च चन्द्रांशुनिर्मलाः।
उपासीना गृणन्तोऽग्निमस्पष्टाक्षरभाषिणः।
आकाङ्क्षमाणाः शुचयस्तेष्वग्रिषु विहङ्गम॥ 13-43-19(82615)
ये मया भावितात्मानो मय्येवाभिरताः सदा।
उपासते च मामेव ज्योतिर्भूता निरामयाः॥ 13-43-20(82616)
तैर्हि तत्रैव वस्तव्यं नीरागादिभिरच्युतैः।
निराहारा ह्यनिष्पन्दाश्चन्द्रांशुसदृशप्रभाः॥ 13-43-21(82617)
निर्मला निरहङ्कारा निरालम्बा निराशिषः।
मद्भक्ताः सततं तेवै भक्तांस्तानपि चाप्यहम्॥ 13-43-22(82618)
चतुर्धाऽहं विभक्तात्मा चरामि जगतो हितः।
लोकानां धारणार्थाय विधानं विदधामि च॥ 13-43-23(82619)
यथावत्तदशेषेण श्रोतुमर्हति मे भवान्॥ 13-43-24(82620)
एका मूर्तिर्निर्गुणाख्या योगं परममास्थिता।
द्वितीया सृजते तात भूतग्रामं चराचरम्॥ 13-43-25(82621)
सृष्टं संहरते चैका जगत्स्थावरजङ्गमम्।
ज्ञातात्मनिष्ठा क्षपयन्मोहयन्तीव मायया।
क्षपयन्ती मोहयति आत्मनिष्ठा स्वमायया॥ 13-43-26(82622)
चतुर्थी मे महामूर्तिर्जगद्वृद्धिं ददाति सा।
रक्षते चापि नियता सोहमस्मि नभश्वरः॥ 13-43-27(82623)
मया सर्वमिदं व्याप्तं मयि सर्वं प्रतिष्ठितम्।
अहं सर्वजगद्बीजं सर्वत्रगतिरव्ययः॥ 13-43-28(82624)
यानि तान्यग्निहोत्राणि ये च चन्द्रांशुराशयः।
गृणन्ति वेदं सततं तेष्वग्निषु विहङ्गम॥ 13-43-29(82625)
क्रमेण मां समायान्ति सुखिनो ज्ञानसंयुताः।
तेषामहं तपो दीप्तं तेजः सम्यक्समाहितम्।
नित्यं ते मयि वर्तन्ते तेषु चाहमतन्द्रितः॥ 13-43-30(82626)
सर्वतो मुक्तसङ्गेन मय्यनन्यसमाधिना।
शक्यः समासादयितुमहं वै ज्ञानचक्षुषा॥ 13-43-31(82627)
मां स्थूलदर्शनं विद्धि जगतः कार्यकारणम्।
मत्तश्च सम्प्रसूतान्वै विद्धि लोकान्सदैवतान्॥ 13-43-32(82628)
मया चापि चतुर्धात्मा विभक्तः प्राणिषु स्यिथः।
आत्मभूतो वासुदेवो ह्यनिरुद्धो मतौ स्यितः॥ 13-43-33(82629)
सङ्कर्षणोऽहङ्कारे च प्रद्युम्नो मनसि स्यितः।
अन्यथा च चतुर्दा यत्सम्यक्त्वं श्रोतुमर्हसि॥ 13-43-34(82630)
यत्तत्पद्ममभूत्पूर्वं तत्र ब्रह्मा व्यजायत।
ब्राह्मणश्चापि सम्भूतः शिव इत्यवधार्यताम्॥ 13-43-35(82631)
शिवात्स्कन्दः संवभूव एतत्सृष्टिचतुष्टयम्।
दैत्यदानवदर्पघ्नमेवं मां विद्धि नित्यशः॥ 13-43-36(82632)
दैत्यदानवरक्षोभिर्यदा धर्मः प्रपीड्यते।
तदाऽहं धर्मवृद्ध्यर्थं मूर्तिमान्भविताऽऽशुग॥ 13-43-37(82633)
वेदव्रतपरा ये तु धीरा निश्चितबुद्ध्यः।
योगिनो योगयुक्ताश्च ते मां पश्यन्ति नान्यथा॥ 13-43-38(82634)
पञ्चभिः सम्प्रयुक्तोऽहं विप्रयुक्तश्च पञ्चभिः।
वर्तमानश्च तेष्वेवं निवृत्तश्चैव तेष्वहम्॥ 13-43-39(82635)
ये विदुर्जातसङ्कल्पास्ते मां पश्यन्ति तादृशाः॥ 13-43-40(82636)
स्वं वायुरापो ज्योतिश्च पृथिवी चेति पञ्चमम्।
तदात्मकोऽस्मि विज्ञेयो न चान्योस्मीति निश्चितम्। 13-43-41(82637)
वर्तमानमतीतं च पञ्चवर्गेषु निश्चलम्।
शब्दस्पर्शेषु रूपेषु रसगन्धेषु चाप्यहम्॥ 13-43-42(82638)
रजस्तमोभ्यामाविष्टा येषां बुद्धिरनिश्चिता।
ते न पश्यन्ति मे तत्वं तपसा महता ह्यपि॥ 13-43-43(82639)
नोपवासैर्न नियमैर्न व्रतैर्विविधैरपि।
द्रष्टुं वा वेदितुं वाऽपि न शक्या परमा गतिः॥ 13-43-44(82640)
महामोहार्थपङ्के तु निमग्रानां गतिर्हरिः।
एकान्तिनो ध्यानपरा यतिभावाद्ब्रजन्ति माम्॥ 13-43-45(82641)
सत्वयुक्ता मतिर्येषां केवलाऽऽत्मविनिश्चिता।
ते पश्यन्ति स्वमात्मानं परमात्मानमव्ययम्॥ 13-43-46(82642)
अहिंसा सर्वभूतेषु तेष्ववस्तितमार्जवम्।
तेष्वेव च समाधाय सम्यगेति च मामजम्॥ 13-43-47(82643)
यदेतत्परमं गुह्यमाख्यानं परमाद्भुतम्।
यत्तेन तदशेषेण यथावच्छ्रोतुमर्हसि॥ 13-43-48(82644)
ये त्वग्निहोत्रनियता जपयज्ञपरायणाः।
ते मामुपासते शश्वद्यांस्तांस्त्वं दृष्टवानसि॥ 13-43-49(82645)
शास्त्रदृष्टविधानज्ञा असक्ताः क्वचिदन्यथा।
शक्योऽहं वेदितुं तैस्तु यन्मे परममव्ययम्॥ 13-43-50(82646)
ये तु सांख्यं च योगं च ज्ञात्वाऽप्यधृतनिश्चयाः।
न ते गच्छन्ति कुशलाः परां गतिमनुत्तमाम्॥ 13-43-51(82647)
तस्माज्ज्ञानेन शुद्धेन प्रसन्नात्माऽऽन्मविच्छुचिः।
आसादयति तद्ब्रह्म यत्र गत्वा न शोचति॥ 13-43-52(82648)
शुद्धाभिजनसम्पन्नाः श्रद्धायुक्तेन चेतसा।
मद्भक्त्या च द्विजश्रेष्ठा गच्छन्ति परमां गतिं॥ 13-43-53(82649)
यद्गह्यं परमं बुद्धेरलिङ्गग्रहणं च यत्।
तत्सूक्ष्मं गृह्यते विप्रैर्यतिभिस्तत्त्वदर्शिभिः॥ 13-43-54(82650)
न वायुः पवते तत्र न तस्मिञ्ज्योतिषां गतिः।
न चापः पृथिवी चैव नाकाशं न मनोगतिः॥ 13-43-55(82651)
तस्माच्चैतानि सर्वाणि प्रजायन्ते विहङ्गम।
सर्वेभ्यश्च स तेभ्यश्च प्रभवत्यमलो विभुः॥ 13-43-56(82652)
स्थूलदर्शनमेतन्मे यद्दृष्टं भवताऽनघ।
एतत्सूक्ष्मस्य तद्द्वारं कार्याणां कारणं त्वहम्॥ 13-43-57(82653)
दृष्टो वै भवता तस्मात्सरस्यमितविक्रम।
ब्रह्मणो यदहोरात्रसङ्ख्याभिज्ञैर्विभाव्यते॥ 13-43-58(82654)
एष कालस्त्वया तत्र सरस्यहमुपागतः।
मां यज्ञमाहुर्यज्ञज्ञा वेदं वेदविदो जनाः।
मुनयश्चापि मामेव जपयज्ञं प्रचक्षते॥ 13-43-59(82655)
वक्ता मन्ता रसयिता घ्राता द्रष्टा प्रदर्शकः।
बोद्धा बोधयिता चाहं गन्ता श्रोता चिदात्मकः॥ 13-43-60(82656)
मामिष्ट्वा स्वर्गमायान्ति तथा चाप्नुवते महत्।
ज्ञात्वा मामेव चैवान्ते निःसङ्गेनान्तरात्मना॥ 13-43-61(82657)
अहं तेजो द्विजातीनां मम तेजो द्विजातयः।
मम यस्तेजसो देहः सोग्निरित्यवगम्यताम्॥ 13-43-62(82658)
प्राणपालः शरीरेऽहं योगिनामहमीश्वरः।
सांख्यानामिदमेवाग्रे मयि सर्वमिदं जगत्॥ 13-43-63(82659)
धर्ममर्तं च कामं च मोक्षं चैवार्जवं जपम्।
तमः सत्वं रजश्चैव कर्मजं च भवाप्ययम्॥ 13-43-64(82660)
स तदाऽहं तथारूपस्त्वया दृष्टः सनातनः।
ततस्त्वहं परतरः शक्यः कालेन वेदितुम्॥ 13-43-65(82661)
मम यत्परमं गुह्यं शाश्वतं ध्रुवमव्ययम्।
तदेवं परमो गुह्यो देवो नारायणो हरिः।
न तच्छक्यं भुजङ्गारे वेत्तुमभ्युदयान्वितैः॥ 13-43-66(82662)
निरारम्भनमस्कारा निराशीर्बन्धनास्तथा।
गच्छन्ति तं महात्मानः परं ब्रह्म सनातनम्॥ 13-43-67(82663)
स्थूलोऽहमेवं विहग त्वया दृष्टस्तथाऽनघ।
एतच्चापि न वेत्त्यन्यस्त्वामृते पन्नगाशन॥ 13-43-68(82664)
मा मतिस्तव गान्नाशमेषा गतिरनुत्तमा।
मद्भक्तो भव नित्यं त्वं ततो वेत्स्यसि मे पदम्॥ 13-43-69(82665)
एतत्ते सर्वमाख्यातं रहस्यं दिव्यमानुषम्।
एतच्छ्रेयः परं चैतत्पन्थानं विद्धि मोक्षिणाम्॥ 13-43-70(82666)
एवमुक्त्वा स भगवांस्तत्रैवान्तरधीयत।
पश्यतो मे महायोगी जगामात्मगतिर्गतिम्॥ 13-43-71(82667)
एतदेवंविधं तस्य महिमानं महात्मनः।
अच्युतस्याप्रमेयस्य दृष्टवानस्मि यत्पुरा॥ 13-43-72(82668)
एतद्वः सर्वमाख्यातं चेष्टितं तस्य धीमतः।
मयाऽनुभूतं प्रत्यक्षं दृष्ट्वा चाद्भुतकर्मणः॥' ॥ 13-43-73(82669)
इति श्रीमन्महाभारते अनुशासनपर्वणि दानधर्मपर्वणि त्रिचत्वारिंशोऽध्यायः॥ 43 ॥


|
 100000 shlokas.jpg)
|
|
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India. |
| |
| |
|
|
| |
|
|
| |
|
|